पूर्वम्: ६।१।१४४
अनन्तरम्: ६।१।१४६
 
सूत्रम्
विष्किरः शकुनौ (विकरो) वा॥ ६।१।१४५
काशिका-वृत्तिः
विष्किरः शुकुम्निर्विकिरो वा ६।१।१५०

विष्किरः इति किरतेः विपूर्वस्य इगुपधज्ञाप्रीकिरः कः ३।१।१३५ इति कप्रत्यये विहिते सुट् निपात्यते शुकुनिश्चेद् भवति। विकिरशब्दाभिधेयो वा शकुनिर् भवति। सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते। विष्किरो वा शकुनौ इति व ग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणम् इह तस्य अपि शकुनेरन्यत्र प्रयोगो म भूत्।
लघु-सिद्धान्त-कौमुदी
हलस्तद्धितस्य १२५६, ६।१।१४५

हलः परस्य तद्धितयकारस्योपधाभूतस्य सोप ईति परे। गार्गी॥
न्यासः
विष्किरः शकुनिर्विकिरो वा। , ६।१।१४५

ननु च "विष्किरः शकुनौ वा" इत्येतावतैव सुङ्()विक्लपः सिद्धः, तत्र किमर्थं विकिरग्रहणम्()? इत्यत आह--"शकुनावेव विकिरशब्दस्य प्रयोगो यथा स्यादन्यत्र मा भूदित्येवमर्थं विकिराग्रहणम्()" (इति)॥
बाल-मनोरमा
विष्किरः शकुनौ वा १०५०, ६।१।१४५

विष्किरः। विकिरतीति विकारः। "कृ? विक्षेपे" "इगुपधज्ञे"ति कः। शकुनौ गम्ये सुड्वा, "परिनिविभ्यः" इति षत्वम्। "नगौकोवाजिविकिरविविष्करपतत्रयः" इत्यमरः। वावचनेनैवेति। वृत्तिग्रन्थे "विष्किरः शकुनौ विकिरो वे"ति सूत्रपाठः। तत्र वाग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणं विष्किरो विकिर इति शकुनावेवेति नियमार्थम्। अतः शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यत इत्यर्थः। भाष्ये हि "विष्किरः शकुनौ वे"ति सूत्रं पठित्वा वाग्रहणेन सुड्विकल्पः, नतु शकुनेरन्यत्र विकिरशब्दस्य प्रयोगो नेति स्थितम्, अन्यत्रापि "विकिपरं वै()आदेविक"मित्यत्र दर्शनादिति भावः।

तत्त्व-बोधिनी
वपिष्किरः शकुनौ वा ८७६, ६।१।१४५

विष्किरः। "कृ? विक्षेपे"इत्यस्मात् "इगुपधे"त्यादिना कप्रत्यये सुडागमोऽनेन निपात्यते। षत्वं तु "परिनिविभ्यः" इत्यनेन। विकिरग्रहणमिति। "विष्किरः शकुनौ विकिरो वा"इति वृत्तिग्रन्थे पाठः, सूत्रपाठे तु विकिरग्रहणं नास्त्येवेति बोध्यम्। तस्यापीति। विकिरशब्दस्यापीत्यर्थः।